PURAANIC SUBJECT INDEX (From Mahaan to Mlechchha ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
मास भगवद्गीतायां १०.३५ कथनमस्ति - मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ अस्य कथनस्य विश्लेषणाय मासस्य विश्लेषणं अपेक्षितमस्ति। शब्दकल्पद्रुमे मासशब्दस्य निर्वचनं मस् परिमाणे धात्वनुसारेण(मसी परिमाणे – इयत्तापरिच्छेदे - काशकृत्स्नधातुपाठः ३.५९) कृतमस्ति। काठकसंहिता २४.५ अनुसारेण हस्ते हिरण्यं कृत्वा मिमीते। अत्र कथनमस्ति - यत् परिमितं मिमीत परिमितं जीवनँ स्यादपरिमितं मिमीते तस्मादिदमपरिमितं जीवनं। अपरिमिततः परिमितस्य चयनस्य एकं उदाहरणं दर्शपूर्णमासयागे अस्ति। तत्र हविर्ग्रहणाय एकं अन्नपूर्णां शकटं प्रस्तूयन्ते यस्मात् यागाय मुष्टिमात्रस्य अन्नस्य उपयोगं कुर्वन्ति। मुष्टिना गृहीतस्य अन्नस्य परिष्करणं उलूखल-मुसल, शूर्प-कृष्णाजिन, दृषद – उपलादि दशयुगलात्मकेभिः यज्ञायुधेभिः भवति। एवंप्रकारेण हविःरूपस्य सोमस्य संपादनं भवति। अपरपक्षे, अग्नेः परिष्करणं गार्हपत्य, दक्षिणाग्नि, आहवनीय, सभ्य, आवसथ्यादिषु भवति। अन्नस्य निष्तुषीकरणे यस्य तुषस्य जननं भवति, तदपि व्यर्थं न भवेत्, अनेन कारणेन कथनमस्ति यत् तुषः मशकरूपाणां प्राणानां सृजनं कुर्वन्ति। येषां तण्डुलानां सृजनं भवति, तेषां विषये कथनमस्ति यत् तेषां तण्डुलानां रूपान्तरणं जीवतण्डुलेषु करणीयं अस्ति, तण्डुलेभिः सह जीवनस्य योजनं अपेक्षितमस्ति। साररूपेण, यदि अपरिमिततः परिमितस्य ग्रहणं भवति, तदा तत् परिमिता मात्रा शुद्धा न भवति, अपितु अज्ञानतः, मायातः छन्ना भवति। अयं माससंज्ञकस्य तन्त्रस्य न्यूनत्वं अस्ति। गीतायाः कथनमस्ति – यदि मृगशीर्षस्थित्यां अपरिमिततः परिमितस्य चयनं कुर्वन्ति, तदा परिष्करणं आवश्यकता न भविष्यति। जैमिनीयब्राह्मण १,१३७ अनुसारेण - द्वादश बृहतस् तन्वो मासा एव। मासा रश्मयः। रश्मयो मरुतः।। एवंप्रकारेण, अयं प्रतीयते यत् सूर्यतः येषां रश्मीनां निर्गमनं भवति, तेभ्यः कामनापूर्त्यर्थं रश्मिविशेषानां चयनं, मिमानं मासः अस्ति। व्यवहारे, यस्य यादृशी अभीप्सा अस्ति, सः तस्यानुसारेण एव सूर्यस्य रश्मीनां चयनं करोति। कर्मकाण्डे, मिमानाय हस्ते हिरण्यधारणस्य निर्देशमस्ति। ब्रह्माण्डे मिमानं चन्द्रमसः नक्षत्रविशेषोपरि स्थित्यानुसारेण भवति। पूर्णिमातिथौ चन्द्रमसः यस्यां नक्षत्रोपरि स्थितिः भवति, तदनुसारेणैव मासस्य संज्ञा भवति। केन कारणेन भगवद्गीतायां कथनमस्ति – मासानां मार्गशीर्षोऽहं। अत्र मार्गशीर्षशब्दतः मृगशीर्षस्य ग्रहणं अपेक्षितमस्ति। हरिवंशपुराणे ३.३२.२४ आख्यानमस्ति यत् दक्षयागतः यज्ञः मृगरूपं धारयित्वा पलायनपरो अभवत्। तदा रुद्रः इषुणा तस्योपरि प्रहारं करोति। यज्ञः स्वरक्षार्थं ब्रह्मणः प्रार्थनां करोति। ब्रह्मा कथयति यत् भवतः शिरः आकाशे नक्षत्ररूपेण ध्रुवरूपे स्थिरीभविष्यति। अयं कल्याणप्रदः अस्ति। एवंरूपेण मृगशिरस्य प्रादुर्भावः भवति। तन्त्रानुसारेण आख्यानस्य व्याख्या एवंप्रकारेण अस्ति। जीवतन्त्रस्य चेतनाशक्तिः यदा ऊर्ध्वारोहणे समर्था भवति, तदा ऊर्ध्वारोहणं स्थिरं न भवति, अपितु ऊर्ध्वारोहणं – अवरोहणं घटति। ध्रुवास्थित्याः प्रापणं अपेक्षितमस्ति। स्कन्दपुराणे २.५.१ मार्गशीर्षमासस्य यः माहात्म्यं वर्णितमस्ति, तस्मिन् ऊर्ध्वपुण्ड्रकरणस्य माहात्म्यं, विष्णोः शंख, चक्रादीनां माहात्म्यं वर्णितमस्ति। अयं प्रतीयते यत् एते लाक्षणिकानि चिह्नानि मृगशीर्षसंज्ञकायाः चेतनायाः अवरोहणेन घटिताः भवन्ति। यदि मासस्य निर्वचनं उपरिलिखितप्रकारेण अस्ति, किं कर्मकाण्डः अस्य पुष्टिं करोति। यः दर्शपूर्णमासयागः अस्ति, तस्य मुख्यकृत्यानि वेदीकरणं, अग्न्याः गार्हपत्यादिरूपेषु पृथक्करणं, हविषः शूर्पादिना निस्तुषीकरणादीनि सन्ति। अतः परं यः चातुर्मास्यसंज्ञकः यागः अस्ति, तस्मिन् संदर्भे काठकसंहितायां ३६.३ कथनमस्ति - यस्त्रयोदशं मासं संपादयति स त्रयोदशं मासमभियजते स चातुर्मास्ययाजी। शांखायनब्राह्मणे ५.८ कथनमस्ति - त्रयोदशम् वा एतन् मासम् आप्नोति यत् शुनासीर्येण यजते । एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः । तै.सं. ४, ३, १०, १ कथनमस्ति - त्रयोदशभिरस्तुवत मासा असृज्यन्त, संवत्सरोऽधिपतिरासीत्। मृगशीर्षस्य संदर्भे, भगवद्गीतायाः १०.३० कथनमस्ति - मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् । किन्तु ऋग्वेदे ९.९६.६ कथनमस्ति - ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । महिषस्य वैशिष्ट्यं अस्ति यत् सामान्यरूपेण अयं चेतनातन्त्रे सुरायाः संपादनं करोति। अयं यमस्य वाहनमस्ति। किन्तु महिषस्य ऋषभरूपे रूपान्तरणं संभवमस्ति। तदा अयं सोमस्य संपादनं करोति। लोके आख्यानं अस्ति यत् शिवेन महिषरूपः धारितः आसीत्। केनापिकारणेन यदा महिषस्य वधः अभवत्, तदा तस्य शिरसः स्थापनं नेपाले पशुपतिनाथरूपेण अभवत्, देहस्य स्थापनं केदारक्षेत्रे केदारनाथरूपेण। मार्गशुक्लनवम्यां तु वसंतीं रावणालये ॥ संपातिर्दशमे मास आचख्यौ वानरेषु ताम्। एकादश्यां महेंद्राद्रे पुःप्लुवे शतयोजनम् ॥ हनूमान्निशि तस्यां तु लंकायां पर्यकालयत्। तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥ द्वादश्यां शिंशपावृक्षे हनूमान्पर्यवस्थितः। तस्यां निशायां जानक्या विश्वासाय च संकथा ॥ अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत। ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः ॥ वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम्। पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः॥ - पद्मपु. ५.३६.३२ संदर्भाः-- वेद मा॒सो धृतव्रतो द्वादश प्रजावतः। वेदा य उपजायते॥ १.०२५.०८
अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि । अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम्। न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त॥ ३.०३२.०९ किं स ऋधक्कृणवद्यं सहस्रं मा॒सो जभार शरदश्च पूर्वीः। नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः॥ ४.०१८.०४ यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन्। यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः॥ ४.०३३.०४ अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मा॒सो नवग्वाः। ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार॥ ५.०४५.०७ धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मा॒सो नवग्वाः। अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः॥ ५.०४५.११ न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति। वृद्धस्य चिद्वर्धतामस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना॥ ६.०२४.०७ अस्मा एतद्दिव्यर्चेव मा॒सा मिमिक्ष इन्द्रे न्ययामि सोमः। जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः॥ ६.०३४.०४ वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म। वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम्॥ ६.०३८.०४ शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा। अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते॥ ७.०६१.०४ वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम्। अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत॥ ७.०६६.११ उशन्ता दूता न दभाय गोपा मा॒सश्च पाथः शरदश्च पूर्वीः। इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम्॥ ७.०९१.०२ यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते। सूर्ये ज्योतिरदधुर्मा॒स्यक्तून्परि द्योतनिं चरतो अजस्रा॥ १०.०१२.०७ अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः। अहरहर्जायते मा॒सिमास्यथा देवा दधिरे हव्यवाहम्॥ १०.०५२.०३ यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः। वायुः सोमस्य रक्षिता समानां मास आकृतिः॥ १०.०८५.०५ अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः। अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम्॥ १०.०८९.१३ अनाधृष्टानि धृषितो व्यास्यन्निधीँरदेवाँ अमृणदयास्यः। मा॒सेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूँरशृणाद्विरुक्मता॥ १०.१३८.०४ एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम्। मा॒सां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति प्रधिं पिता॥ १०.१३८.०६ हिरण्ययी अरणी यं निर्मन्थतो अश्विना। तं ते गर्भं हवामहे दशमे मा॒सि सूतवे॥ १०.१८४.०३ समानां मा॒सामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि । इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥१.३५.४॥ ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् । समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥३.१०.९॥ यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः । अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४.३५.४॥ पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥५.६.४॥ धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मा॒सि सूतवे ॥५.२५.१०॥ त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मा॒सि सूतवे ॥११॥ सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मा॒सि सूतवे ॥१२॥ प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः । पुमांसं पुत्रमा धेहि दशमे मा॒सि सूतवे ॥१३॥ षडाहुः शीतान् षडु मा॒स उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः । सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥शौ ८.९.१७॥ सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मा॒सि समभवत्। तस्मात्पितृभ्यो मा॒स्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥८.१२.१९॥ सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमा॒से समभवत्। तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥८.१२.२०॥ क्वार्धमा॒साः क्व यन्ति मासाः संवत्सरेण सह संविदानाः । यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०.७.५॥ ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् । समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥११.८.१७॥ अर्धमा॒साश्च मासाश्चार्तवा ऋतुभिः सह । उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥११.९.२०॥ दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे । स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१३.२.१२॥ तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते । तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१३.३.८॥ यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः । वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥१४.१.४॥ तस्मै प्राच्या दिशः । १५.४.१ वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ । [२] वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद।। तस्मै दक्षिणाया दिशः । [४] ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद।। तस्मै प्रतीच्या दिशः । [७] वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [८] वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद।। तस्मा उदीच्या दिशः । [१०] शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [११] शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद।। तस्मै ध्रुवाया दिशः । [१३] हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [१४] हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद।। तस्मा ऊर्ध्वाया दिशः । [१६] शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [१७] शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद।।- १५.४.१८ सोऽनादिष्टां दिशमनु व्यचलत्। [१६] तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमा॒साश्चाहोरात्रे चानुव्यचलन्।। ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमा॒सानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद १५.६.१७ यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । सूर्ये ज्योतिरदधुर्मा॒स्यक्तून् परि द्योतनिं चरतो अजस्रा ॥१८.१.३५॥ परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः । अधा मा॒सि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥१८.४.६३॥ अन्नं मासाः । काठ २१, १; गवामयने मासि मासि एकाहरुत्सर्गः - प्राणो वै संव्वत्सर उदाना मासा यदुत्सृजन्ति प्राण एवोदानान् दधति - तां ५,१०, ३ । यो वा एष चन्द्रमा एष वाव संवत्सर, एष प्रजापतिर्, एष मास इति। एतावान् वावैष यावान् मासः।। जै २, ३ । किं नु तेऽस्मासु (मासेषु) इति । इमानि स्थूलानि पर्वाणि । जैउ ३, ५,४,८। सृष्टीष्टकाः- त्रयोदशभिरस्तुवत मासा असृज्यन्त, संवत्सरोऽधिपतिरासीत् ..... एकत्रिꣳशताऽस्तुवत प्रजा असृज्यन्त यावानां चायावानां चाऽऽधिपत्यम् आसीत् - तैसं ४, ३, १०, १-२; मै २,८, ६ । त्रिꣳशद्वै रात्रयो मासः । मै १,१०,८; काठ ३६,२ । त्रिंशन्मासो रात्रयः । काठ ३४,९ (तु. जै २,१०९; ३७७)। त्रिꣳशिनो मासाः । तैसं ७,५,२०,१। स्वयमातृण्णाद्यभिधानम् - मा छन्द इति दक्षिणत उप दधाति तस्माद् दक्षिणावृतो मासाः। तैसं ५,३,२,४; क ३१,१३ । यो ह वा अर्धमासानां च मासानां च नामधेयानि वेद । नार्धमासेषु न मासेष्वार्तिमार्च्छति । पवित्रं पवयिष्यन्त्सहस्वान्त्सहीयानरुणोऽरुणरजा इति । एतेऽनुवाका अर्द्धमासानाञ्च मासानाञ्च नामधेयानि । तै ३, १०, १०,३ । मासाः (संवत्सरस्य) कर्मकाराः । तै ३,११,१०,३ । द्वादश बृहतस् तन्वो मासा एव। मासा रश्मयः। रश्मयो मरुतः।। जै १,१३७; तां १४,१२,९ । ऋतव एव प्रवोवाजा(ऋ. ३.२७.१) मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुम्नयुः ॥। गो १, ५,२३ । अक्ष्णयास्तोमीयादीनामभिधानम् - मासा वै य(या तैसं.]) वाः । तैसं ५, ३, ४, ५, काठ १२, १। मासा वै वाजाः। तैसं २, ५,७,४ । मासास्त्वा श्रपयन्तु । तैआ ४,२६,१ । १६. अश्वमेधः - अर्धमासाः पर्वाणि मासाः सन्धानानि । तैसं ७,५,२५, १। १७. मासा हवीꣳषि । माश ११, २, ७, ३ । स यो देवानामासीत् । स यवायुवत हि तेन देवा योऽसुराणां सोऽयवा न हि तेनासुरा अयुवत(२५) अथो इतरथाहुः य एव देवानामासीत्सोऽयवा न हि तमसुरा अयुवत योऽसुराणां स यवायुवत हि तं देवाः सब्दमहः सगरा रात्रिर्यव्या मासाः सुमेकः संवत्सरःस्वेको ह वै नामैतद्यत्सुमेक इति यवा च हि वा अयवा यवेतीवाथ। माश १, ७,२,२६॥ यावानाम् भागो ऽसीति दक्षिणतः । मासा वै यावा अर्धमासा अयावास् तस्माद् दक्षिणावृतो मासाः । अन्नं वै यावाः । अन्नम् प्रजाः । अन्नम् एव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नम् अद्यते ।– तैसं ५.३.४.५, सजूर् अब्दो ऽयावभिः सजूर् उषा अरुणीभिः सजूः सूर्य एतशेन ….संवत्सरो वा अब्दः । मासा अयावाः । उषा अरुणी सूर्य एतशः । - तैसं ५.६.४.१ इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ।।– तैआ १.१४.३ द्वादश मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति– माश ११.६.३.८, जै २.७७ ; दक्षिणा(दिश्-)- २३ – मै १.४.२, काठ ५.५; ३० – तैसं १.६.५.१; पितृ- ८७ तै १.६.८.३, ३.३.६.४; दात्यौह- मै ३.१४.६ |