PURAANIC SUBJECT INDEX (From Mahaan to Mlechchha ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
मेरु भगवद्गीतायां १०.२३ कथनमस्ति - मेरुः शिखरिणामहम्। वैदिकवाङ्मये प्रसिद्धमस्ति यत् पर्वताः भूमिं स्थैर्यं प्रदायन्ति। यथा स्थूलब्रह्माण्डे दृश्यते, सूक्ष्मब्रह्माण्डे प्राणानां पर्वताः जीवभूमिं स्थैर्यं प्रदायन्ति। चेतनायाः स्तरः यावती सीमातः सूक्ष्मं भवति, तावती सीमातः सूक्ष्मपर्वतस्य अपि आवश्यकता भविष्यति। अयं सूक्ष्मतमः पर्वतः मेरुः अस्ति, इति प्रतीयते। वैदिकवाङ्मये मेरुविषये तैत्तिरीयारण्यकः १.७.१ एव एकमात्रप्रत्यक्षस्रोतः अस्ति। अत्र कथनमस्ति यत् आरोगः, भ्राजः, पटरः पतङ्गः एते चत्वारः सूर्याः सन्ति येषां रश्मयः अधोमुखाः सन्ति एवं पृथिवीलोकं तपन्ति। स्वर्णरो ज्योतिषीमान्विभासः एते त्रयः सूर्याः सन्ति येषां रश्मयः ऊर्ध्वमुख्याः सन्ति। ताः शीतरश्मयः सन्ति। एतेषां सप्तानां मध्ये एकः अष्टमः सूर्यः अस्ति यस्य संज्ञा महामेरुः (अथवा कश्यपः) अस्ति। कश्यपः कदाचिदपि महामेरोः परित्यागं न करोति। महामेरोः ऊर्जा अक्षया अस्ति। ये अन्ये सूर्याः सन्ति, तेषां क्षयात्मका अस्ति। अपि च, ते सूर्याः ऊर्जायाः आदानं पृथिवीतः एव कुर्वन्ति। पुराणेषु मेरोः परितः पर्वतादीनां स्थित्याः विस्तृतवर्णनमस्ति। तैत्तिरीयारण्यके ये सप्तसूर्याः सन्ति, तेषां स्थानं मेरोः चतुर्दिक्षु अस्ति अथवा ऊर्ध्वाधो दिक्षु, अयं स्पष्टं नास्ति। डा. फतहसिंहः कथयति स्म यत् कश्यपः समाधितः व्युत्थानस्य स्थितिः अस्ति। समाध्युन्मुखास्थितिः पश्यकः अस्ति। योगवासिष्ठे ३.८१.१०५ कथनमस्ति - बिसतन्तुर्महामेरुः परमाणोरपेक्षया । दृश्यं किल विशेत्तन्तुरदृश्याक्ष्णा पराणुता ।। एकेन तेन महता परमाणुना च व्याप्तं ततं विरचितं जनितं कृतं च । लोके शिल्पशास्त्रे महावीरादिजनानां स्थितिः चतुर्दशस्तरात्मकस्य मेरोरुपरि प्रदर्शयन्ति। एते चतुर्दशाः स्तराः कानि सन्ति, न ज्ञातमस्ति। लक्ष्मीनारायणसंहितायां ३.३.३७ कथनमस्ति - चतुर्दशस्तराणां वै भारेण महता तदा । आक्रान्तोऽभूत्तदा पातालाऽधो विवेश वै मनाक् ।। अस्य मेरोः उद्धरणाय मेरुनारायणस्य आविर्भावमभूत्, अयं आख्यानमस्ति। पुराणेषु, यत्किंचित् भूम्यामुपरि विद्यमानः अस्ति, यथा ब्राह्मणादि चतुर्वर्णाः, तत्सर्वं मेरोः परितः विद्यमानः अस्ति। अयं संकेतमस्ति यत् पृथिव्याः स्थूलचेतना सूक्ष्मीभूत्वा मेरुचेतनायाः पोषणं करोति। योगवासिष्ठे ६.१.८१.४५ कथनमस्ति - विद्धि कुण्डलिनीमन्तरामोदस्येव मञ्जरीम् ।। तां यदा पूरकाभ्यासादापूर्य स्थीयते समम् । तदैति मैरवं स्थैर्यं कायस्यापीनता तथा ।। अयं प्रतीयते यत् पुराणेषु मेरोः विवेचनं, मेरुचेतनातः पूर्वचेतनायाः विवेचनं मुरअसुररूपेण कृतमस्ति। उणादिकोशे ४.१०१ मेरुशब्दस्य निरुक्तिः मिपीभ्यां रुः ॥ मेरुः । पेरुः सूर्यः । बाहुलकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः अर्थात् मीञ्(हिंसायां) धातुतः मेरुः एवं पीञ् धातुतः पेरुः अनुसारेण कृता अस्ति। वामनपुराणे ६०.२९ कथा अस्ति यत् मुरः तपसा वरदानं प्राप्नोति यत् यस्य सः स्पर्शं करिष्यति, तस्य मृत्युः भविष्यति। सः विष्णोः सह योद्धुं गच्छति। विष्णुः कथयति – तव हृदयः कम्पितः अस्ति, त्वं कथं योधयिष्यसि। स्वकरेण स्पर्शयस्व। यदैव सः स्वहृदयं स्पर्शयति, तस्य मृत्युः भवति। मुरः तालजङ्घासुरस्य पुत्रः अस्ति। संगीतशास्त्रे तालस्य उत्पत्तिः देहस्य ये स्थूलतराः स्तराः सन्ति, तेभ्यः भवति। तालजङ्घशब्दः सूचकः अस्ति यत् यस्य तालस्य उत्पत्तिः भवति, तत् परस्परसहयोगिका नास्ति, हिंसका अस्ति। बलरामादीनां ध्वजः तालः अस्ति। तत् तालः सहयोगिका अस्ति। बलरामस्य तालस्य विषये कथनमस्ति यत् तस्य करतलः दर्पणः अस्ति। यत्किंचित् देहमध्ये घटितं भवति, तस्य सर्वस्य ज्ञानं करतलात् कर्तुं शक्यन्ते। पादतलस्य अपि अयमेव स्थितिः अस्ति। माता निर्मलादेवी कथयति स्म यत् ये सिद्धजनाः भवन्ति, ते सिद्धस्थानस्य प्रत्यभिज्ञा स्वपादाभ्यां दूरतः अपि कर्तुं शक्ताः सन्ति। पुराणेषु मुरः नरकासुरस्य सेनानीः अस्ति। नरकासुरस्य नगरी प्राग्ज्योतिषपुरः अस्ति। अर्थात् ज्योतिआविर्भावतः, सूर्याविर्भावतः पूर्वावस्था प्राग्ज्योतिषपुरः अस्ति। यदा कृष्णः स्वचक्रेण मुरस्य एवं नरकासुरस्य हननं करोति, तदा पृथिवी कृष्णाय नरकासुरेण अपहृतं अदित्याः कुण्डलं ददाति। यः मेरुकर्णिका अस्ति, तस्याः विषये अपि पुराणेषु (भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः॥ - ब्रह्म १.१६.१३) उल्लेखः अस्ति यत् अयं कुण्डलाकारा अस्ति। पुराणेषु एकादशीतिथ्या मुरस्य हननस्य कथना अपि सन्ति। एकादशीतिथिः मुरस्य हननं केन प्रकारेण करिष्यति, अन्वेषणीयः। स्कन्दपुराणे ४.१.८.१०५टीका मुरारिशब्दस्य निरुक्तिविषये कथनमस्ति - मुरारे मुरति संवेष्टयति मूर्च्छयतीति वा मुरा अविद्या। मुर संवेष्टने।
|