PURAANIC SUBJECT INDEX (From Mahaan to Mlechchha ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
मेखला- १. ऊर्ग्वै मेखला । क ३६, १ । २. अथ मेखलां परिहरते । अङ्गिरसो ह वै दीक्षितानबल्यमविन्दत्तेनान्यद्व्रतादशनमवाकल्पयंस्त एतामूर्जमपश्यन्त्समाप्तिं तां मध्यत आत्मन ऊर्जमदधत समाप्तिं तया समाप्नोति । माश ३, २, १, १० । ३ मेखला पुंसो भवति, योक्त्र च स्त्रियाः । काठ २३.४, क ३६,१ ।
४.
यच्छरमयी मेखला भवति (तामेवोर्जमालभत ।
ऊर्ग्वै मेखला [काठ.]) । तैसं ६,
१, ३, ३ -
४, ५. वज्रो वै मेखला । काठ २३, ४ । ६. सा ( मेखला) वै शाणी भवति । माश ३, २, १, ११ ।। योक्त्रेण पत्नी संनह्यते, मेखलया दीक्षितः। ः मै ३.६.७
मेनि ता वा एता अङ्गिरस जामयो यन्मेनयः करोति मेनिभिर् वीर्यं य एवं वेद । गो १,१,९ । सर्वो वा एष यज्ञः, सर्वेणैवैनं यज्ञेनाभिचरति , अदक्षिणः तु स्या, स्तत्स्विन्मेनिमक , र्मेनिर् ह्यदक्षिणो । मै २,४,५ ।
मेष त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य । त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥ - १,०३१.१२ अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् । यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥ - १,०५१.०१ त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते । अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥ - १,०५२.०१ मेषं- शत्रुभिः सह स्पर्द्धमानम् – सायण यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥ - १,१६४.२१ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥ - ८,०९७.१२ पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् । द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥ - १०,०२७.१७ होता यक्षन् नराशँसं न नग्नहुं पतिं सुराया भेषजं , मेषः सरस्वती भिषग् - मै ३.११.२ मेषं सरस्वत्यै स्वाहा । मै ३,११,२ । मेषस्त्वा पचतैरवतु । तैसं ७,४,१२,१; काठ ४४,१ । स हि प्रत्यक्षं वरुणस्य पशुर्यन्मेषः । माश २,५,२,१६ । सारस्वतं मेषम् (आलभते) । तैसं १,८,२१,२; तै १,८,५,६ ॥ मेधातिथेर्ह मेषो भूत्वा (इन्द्रः) राजानं (सोमम्) पपौ – जै २.७९ यत्रेन्द्रस्य मेषस्य हविषः प्रिया धामानि... तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षत् – काठ १८.२१ मेषी सारस्वती । मै ४,७,८ (तु. काठ ८,१) । यत्र सरस्वत्या मेष्या हविषः प्रिया धामानि । काठ १८,२१ । सारस्वतीं मेषीमालभेत यो वाचो गृहीत, वाग् वै सरस्वती, वाचैवास्य वाचं भिषज्यति (+ आलभेत यो वाचो गृहीतः [म.]) । मै २,५,२; काठ १२,१२ । सारस्वती मेष्यधस्ताद्धन्वोः । मै ३,१३,२ ॥ सारस्वती मेष्य, तिरात्र आलभ्या, वाग् वै सरस्वती, वाग् अनुष्टुब्, आनुष्टुभी रात्रिः। मै ३.९.५ इमं ऊर्णायुं वरुणस्य नाभिं त्वचं पशूनां द्विपदां चतुष्पदाम् , त्वष्टुर्देवानां प्रथमं जनित्रमग्ने मा हिंसीः परमे व्योमन् ॥ मेषमारण्यमनु ते दिशामि, तेन चिन्वानस्तन्वं निषीद, मेषं ते शुग् ऋच्छतु, यं द्विष्मस्तं ते शुग् ऋच्छतु – मै २.७.१७ करम्भपात्राण्येकातिरिक्तानि भवन्ति तेषामेव मेषीं च मेषं च कुर्वन्ति शृङ्गवान्मेषो भवत्यशृङ्गा मेषी तौ शुक्लाभिरूर्णाभिः संप्रच्छन्नौ भवतो – बौ.श्रौ.सू. ५.५
वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ
रौद्री धेनुर्विनिर्दिष्टा च्छागमाग्नेयमुच्यते ।। १६।। |