PURAANIC SUBJECT INDEX (From Mahaan to Mlechchha ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।
यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।
स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । इवि – व्याप्तौ
यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।
मत्सि नो वस्यइष्टय इन्द्रमिन्दो वृषा विश ।
आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि । इन्वतिशब्दस्य भाष्यं सायणाचार्येण इविधात्वाधारेण व्याप्नोति इति कृतमस्ति। किन्तु तैत्तिरीयब्राह्मणे १.५.१.१ मृगशिरा(इन्वका) नक्षत्रस्य वैशिष्ट्यस्य कथने उल्लेखः अस्ति - सोमस्येन्वका । विततानि परस्ताद्वयन्तोऽवस्तात् ।। एकवारं यदा ततनस्य, विस्तारस्य क्रिया पूर्णा भवति, तदनन्तरं विस्तीर्णितानां शक्तीनां परस्परवयनं एव शिष्टं भवति। वयनेन एकस्य अष्टमस्य शक्त्याः जननं भवति। पोताऋत्विक् विषये कथनमस्ति - त्विषिश्च अपचितिश्च नेष्टापोतारौ। पोतृऋत्विजस्य कार्यं यः चितः अस्ति, तस्य अपचेतनं अस्ति, अयं प्रतीयते। किन्तु प्रस्तुतसंदर्भे पोता ग्रथनस्य, चितिकरणस्य कार्यं कर्तुं प्रतीयते। किं इन्वतिशब्दस्य विस्तारं जिन्वतिरूपेण(जीवनदाने) कर्तुं शक्यन्ते, विचारणीयः अस्ति।
सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन ।
त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना ।
समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये ।
वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः ।
हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् ।
युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः ।
वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
सत्रा त्वं पुरुष्टुतँ एको वृत्राणि तोशसे ।
यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।
यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।
इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम् ।
या रुचो जातवेदसो देवत्रा हव्यवाहनीः । शमितार उपेतन यज्ञम् देवेभिर् इन्वितम् । पाशात् पशुम् प्र मुञ्चत बन्धाद् यज्ञपतिम् परि ॥ - तैसं ३.१.४.४ सोमस्येन्वका । विततानि परस्ताद्वयन्तोऽवस्तात् । - तैब्रा १.५.१.१ इन्वगा नक्षत्रं मरुतो देवता – मैसं २.१३.२० सोमो वा अकामयत । ओषधीनाꣳ राज्यमभिजयेयमिति । स एतꣳ सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् । ततो वै स ओषधीनाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा । राज्याय स्वाहाभिजित्यै स्वाहेति – तैब्रा ३.१.४.३ एकेषामिन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनिन्दिता – भारद्वाज गृह्यसूत्रम् १.१२ इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः आप.गृ.सू. २.१६ महाभौमो राजा मरिष्यतीति विद्यादेकारिणां छवकामिन्वकासु ।- अथ.परि. १.६.५ सौम्यं मृगशिरं विद्यान्मरुतश्चात्र दैवतम् ॥ - अथर्व परि. १.४.१ इन्व गतौ भ्वा० निरु० । इनधातौ ९२८ पृष्ठे विवृतिः । इन्वका स्त्री इन्वति इन्व--अक् स इव कायति कै--क । मृगशिरोनक्षत्रोपरिस्थे इल्वलाख्यतारासु अमरटीका । - वाचस्पत्यम् |