Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मृगया

राज्ञां मृगयाकृत्यम् पुराणेषु सार्वत्रिक रूपेण वर्णितमस्ति। यद्यपि मृगयाकृत्यम् एकमेवमस्ति, किन्तु तस्य परिणामाः भिन्नाः – भिन्नाः सन्ति। अस्मिन् कृत्ये यदा राजा क्षुधा-तृष्णया व्याकुलं भवति, तदा प्रायः तस्य मेलनं कस्यचिद् सात्त्विकवृति पुरुषेण सह, ऋषिणा सह भवति एवं सः पुरुषः तस्य मार्गदर्शनं करोति। अथवा मृगयाकाले सः मृगरूपधारिणः कश्चिद् ऋषेः हननं करोति एवं तेन कारणेन शापप्राप्तिं करोति।

     भारतीय संस्कृतिः अहिंसामूलका अस्ति। तर्हि राज्ञां मृगयाकृत्यसेवनं केन प्रकारेण उचितमस्ति। प्राचीन अमेरिकी सभ्यता मध्ये निर्देशमासीत् यत् मृगयाकाले प्राणिनां वधं प्रेम्णा करणीयमस्ति। वैदिक संस्कृति मध्ये कथनमस्ति यत् ये ग्राम्याः पशवः सन्ति – अश्व, गौ, अवि, अज इत्यादि, तेषां सम्बन्धिनां पाशानां, संस्काराणां शोधनं यज्ञेन संभवमस्ति, किन्तु ये आरण्यकाः पशवः सन्ति- गज, ऋक्ष, सिंह इत्यादि- तेषां पाशानां,संस्काराणां शोधनं यज्ञेन संभवं नास्ति। अनेन कारणेन गोमेध, अश्वमेधादि यज्ञानां अस्तित्वमस्ति, किन्तु सिंहमेधस्य नास्ति। यागेषु आरण्यक पशूनां प्रोक्षणोपरि उत्सृजनं, मोचनं विहितमस्ति। आरण्यकाः पशवः हिंसक प्रवृत्तीनां – भय, क्रोधादीनां प्रतीकाः सन्ति। पुराणेषु तेषां सर्वेषां संज्ञा मृगमस्ति।  तेषां रूपान्तरणं संभवं नास्ति। किन्तु मृगया द्वारा तेषां रूपान्तरणं संभवमस्ति, अयं प्रतीयते। महाभारते आदिपर्वे ११३ कथनमस्ति यत् यदा राजा पाण्डुः जिततन्द्री भवति, तदा सः मृगया हेतु अरण्ये गच्छति। अयं संकेतमस्ति यत् प्रथमतः ग्राम्यणां पशूनामोपरि नियन्त्रणं करणीयं अस्ति, तदोपरि आरण्यकानां पशूनामोपरि।  

     ब्रह्माण्डपुराणे  २.३.३४+ परशुरामस्य आख्यानमस्ति यत्र कार्तवीर्य अर्जुनस्य वधार्थं सः शस्त्रप्राप्ति हेतु मध्यम पुष्करे तपः करोति। तस्मिन् काले सः मृग-मृगी संवादं शृणोति यत् कदाचित् यदि अयं तापसः कनिष्ठ पुष्करे अगस्त्य ऋषितः कृष्णप्रेमामृतस्तोत्रं गृह्णाति, तदा तस्य कार्यसिद्धिं भवेत्। अयं संवादं श्रुत्वा परशुरामः एवमेव करोति। ये मृगाः हिंसकाः सन्ति, तेपि तापसानां सान्निध्ये भविष्यस्य मार्गदर्शकाः भवन्ति, तेषां हिंसकप्रवृत्त्याः रूपान्तरणं भवति। पुष्करस्य मध्यम संज्ञा संकेतमस्ति यत् अयं भक्तस्य चत्वार्यः अवस्थानां संकेतमस्ति –

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च।

प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः।। - भागवतपुराणम्

अत्र भक्त्याः पराकाष्ठा प्रेममस्ति। कृपायाः संदर्भे, महाभारते कथनं अस्ति यत् राजा शन्तनुः मृगया हेतु गच्छति एवं अरण्ये कृप, कृपी एवं कृष्णाजिनं प्रापयति। सः कृपं एवं कृपीं गृह्णाति एवं तेषां पालनं करोति। कृपा अर्थात् पुण्यदानेन अन्यजनस्य रूपान्तरणम्। द्वेषस्य रूपान्तरणं केनापि प्रकारेण संभवं नास्ति। अतएव पुराणेषु या मृगया विहितमस्ति, सा द्वेषकारिणां पशूनां हननाय विहितमस्ति, अयं कथितुं शक्यन्ते। अयं द्वेषः पुरातनाः संस्काराः सन्ति येषां शोधनं केनापि प्रायश्चित्तेन संभवं नास्ति। यदा कोपि जनः तेषां नाशाय कटिबद्धं भवति, तदैव आश्चर्यजनकाः परिणामाः घटिताः भवन्ति, यथा पुराणेषु मृगया सम्बन्धिनः कथासु मध्ये।

यद्यपि पुराणेषु मृगया सम्बन्धिनः बहवः आख्यानाः सन्ति, किन्तु कथासरित्सागरस्य आख्यानः अप्रतिमः अस्ति। कथासरित्सागरे ९.४ आख्यानमस्ति यत् मृगयानन्तरं नरवाहनदत्तस्य संवादं रूपसिद्धि, प्रमाणसिद्धि, ज्ञानसिद्धि एवं देवसिद्धि संज्ञकेभिः चत्वार्यः पुरुषेभिः सह भवति एवं ते पुरुषाः नरवाहनदत्तं श्वेतद्वीपं नयन्ति।  अस्य मूलं  सामवेदे निहितं भवति। द्वादशाह संज्ञके सोमयागे अष्टमे अह्नि माध्यन्दिन सवने एकस्य तृचस्य (अध्वर्यो अद्रिभिः सुतं इति) प्रयोगं सप्तप्रकाराणां साम्नां सृजनार्थं भवति -– वैरूपं, आशुभार्गवं, मार्गीयवं, सौमित्रं, ऐटतं, धुरासाकमश्वम् एवं विलम्बसौपर्णम्। भागवतपुराणे अष्टम स्कन्धे समुद्रमन्थनम्, विष्णुना मोहिनीरूप धारणमित्यादि वर्णितमस्ति। सप्तम् स्कन्धे प्रह्लादस्य आख्यानमस्ति। सप्तम स्कन्धे नाम्नः एवं अष्टम स्कन्धे रूपस्य आख्यानमस्ति, अयं प्रतीयते। द्वादशाहस्य अष्टमे अह्नि माध्यन्दिनस्य सवनस्य आरम्भं वैरूपं साम्ना भवति। अयं संकेतमस्ति यत् साधना मध्ये यः कोपि दृश्यं  विरूपमस्ति, तस्य शोधनं, रूपनिर्माणं प्रथम कर्तव्यं भवति ( कथासरित्सागरस्य आख्याने प्रथमस्य पुरुषस्य संज्ञा रूपसिद्धिरस्ति)। यावत् दृष्ट्याः रूपान्तरणं न भवति, अन्तर्दृष्ट्याः लम्भनं न भवति, तावत् विरूपस्य मुञ्चनं संभवं नास्ति। द्वितीयस्य साम्नः संज्ञा आशुभार्गवमस्ति। आशु अर्थात् एकस्मिन् काले सर्वत्र व्याप्ति, कालरहिता अवस्था। प्रेम्णः स्थितिः कालरहिता भवति। भार्गव(भृगु) स्थितिः ऋभुतः विपरीतमस्ति, अयं प्रतीयते। खण्डितस्य चेतनायां मध्ये ऋभूणां अस्तित्वं भवति। अतएव अखण्डितस्य चेतनायां भृगुः, पापानां भर्जनं स्थितिः प्रापणीयं अस्ति। कथासरित्सागरे अस्य प्रतीकं प्रमाणसिद्धि पुरुषः अस्ति, अयं प्रतीयते। ऋग्वेदे १०.१३०.३ ऋचा अस्ति-

कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत्।

छन्दः किमासीत्प्र‍उगं किमुक्थं यद्देवा देवमयजन्त विश्वे॥ १०.१३०.०३

     मा अर्थात् मायावस्थायां जगतः मानकरणम्। प्रमा अर्थात् प्रकृष्टरूपेण मानकरणम्। शब्दकल्पद्रुमानुसारेण भ्रमभिन्नज्ञानम् प्रमाणं भवति।

 

    महाभारते शान्तिपर्वे १२५+  राजा सुमित्रः नृष्टमृगस्य अन्वेषणे भग्नाशा भवति।अयं अन्वेषणीयं यत् आशु एवं आशा शब्दाः परस्पर केन प्रकारेण सम्बद्धाः सन्ति। रामायणे दशरथेन मृगभ्रान्त्या श्रवणकुमारस्य हननस्य कथा प्रसिद्धमस्ति। पुराणेषु उच्चैःश्रवा अश्वस्य पुत्रः आशुश्रवा अस्ति। यदा मृगरूपस्य शकुनस्य आभासं भवति, तदा तत् अत्यन्तं दुर्बलं भवति। साधनतः तत् एव उच्च एवं आशुः करणीयमस्ति।

     पुराणेषु मृगस्य प्रतीकेण किं दर्शितमस्ति। वाल्मीकि रामायणे ४.५९.९ उल्लेखमस्ति यत् मृगाः तीक्ष्ण भयेन पीडिताः भवन्ति। अयं भयं कः अस्ति। संसारे मृत्योर्भयं सार्वकालिकं भवति।

     महाभारते अनुशासने ११५ अगस्त्येन ऋषिणा मृगया हेतु सर्वेषां मृगाणां प्रोक्षणकरणस्य उल्लेखमस्ति। ब्रह्माण्ड पुराणे अगस्त्येन कृष्णप्रेमामृतस्तोत्रस्य दानस्य कथनमस्ति। किं मृगाणां प्रोक्षणमपि प्रेम्णा एव संभवमस्ति, अयं अन्वेषणीयः।

सोमयागे एवं अन्येषु यागेष्वपि यजमानः स्वपृष्ठे कृष्णाजिनं धारयति एवं कट्यां मृगशृङ्गं धारयति। कण्डोः शमनं सः मृगशृङ्गेण एव कर्तुं शक्यते।  पुराणेषु सार्वत्रिक आख्यानं भवति यत् ऋषिः स्वभार्या सह मृग-मृगी रूपेण मैथुनं करोति। यदा कोपि राजा मृगयाकाले तेषां वधं करोति, तदा सः शापभागी भवति।

Audio file for play and download(गानम् - श्री जी.के.सीतारामन)

वैरूपम् सामम्

आशुभार्गवम्

मार्गीयवम्

सौमित्रम्

ऐटतम्

धुरासाकमश्वम्

विलम्बसौपर्णम्

राजाओं का मृगया कृत्य पुराणों में सार्वत्रिक रूप से वर्णित है। यद्यपि मृगयाकृत्य एक है, किन्तु उसके परिणाम भिन्न – भिन्न हैं। जब राजा क्षुधा – तृष्णा से व्याकुलहोता है तो उसका मिलन किसी सात्त्विक वृत्ति वाले पुरुष या ऋषि से हो जाता है और वह पुरुष उसका मार्गदर्शन करताहै। अथवा राजा मृगयाकाल में मृगरूपधारी किसी ऋषि की हत्या कर देता है जिससे उसे शाप की प्राप्तिहोती है।

     भारतीय संस्कृति अहिंसामूलक है। तब राजाओं द्वारा मृगया कृत्य किस प्रकार उचितठहराया जा सकता है। प्राचीन अमेरिकी सभ्यता में निर्देश है कि मृगयाकाल में प्राणियों का वध प्रेम से ही करणीय है। वैदिक संस्कृतिमें कथन है कि जो ग्राम्य पशु हैं – अश्व, गौ, अवि, अज इत्यादि, उनसे सम्बन्धित पाशों, संस्कारों का शोधन तो यज्ञ द्वारा सम्भव है, किन्तु जो आरण्यक पशु हैं –गज,ऋक्ष, सिंह आदि,उनके पाशों, संस्कारों का शोधन यज्ञ द्वारा संभव नहीं है। इसी कारण से गोमेध, अश्वमेध आदि यज्ञों का अस्तित्व है, किन्तु सिंहमेध का नहीं। यागों में आरण्यक पशुओं का प्रोक्षण मात्र करके उनको मुक्त कर दिया जाता है। आरण्यक पशों की प्रवृत्तियां भय, क्रोध आदि की प्रतीक हैं। पुराणों में उनकी संज्ञा मृग है। उनका रूपान्तरण संभव नहीं है। किन्तु मृगया द्वारा उनका रूपान्तरण संभव है, ऐसा प्रतीत होता है। महाभारत आदिपर्व में कथन है कि जब राजा पाण्डु जिततन्द्री हो जाताहै, तब वह मृगया हेतु अरण्य में जाता है। यह संकेत है कि ग्राम्य पशुओं पर नियन्त्रण करने के पश्चात् ही आरण्यक पशुओं का नियन्त्रण किया जा सकता है।

     ब्रह्माण्ड पुराण में परशुराम का आख्यान है जहां कार्तवीर्य अर्जुन के वध हेतु वह मध्यम पुष्कर में तप करते हैं। उस समय वह मृग-मृगी का संवाद सुनते हैं कि यदि यह तपस्वी कनिष्ठ पुष्कर में अगस्त्य ऋषि से कृष्णप्रेमामृत स्तोत्र ग्रहण कर ले तो कार्यसिद्धि हो सकती है। परशुराम ऐसा ही करते हैं। तब उन्हें कार्यसिद्धि हो जाती है। जो मृग हिंसक होतेहैं, वह भी तपस्वियों के सान्निध्य में भविष्य के मार्गदर्शक बन जाते हैं। पुष्कर की मध्यम संज्ञा संकेत हैकि यह भक्त की चार अवस्थाओं का संकेत है –

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च।

प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः।। - भागवतपुराणम्

----- - - - -- - - - -

-    - -- - -- - - -   

 

संदर्भाः

आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः।

अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते।। - महाभारत आदि ९१.१८

आस्यस्य यावदपेक्षितं तावदेव मृगयते नतु परदिनार्थणार्जयतीत्यर्थः।।

मृगया पानमक्षांश्च वर्जयेत् पृथिवीपतिः।
एतान्ये सेवमानास्तु विनष्टाः पृथिवीक्षितः ।। मत्स्य २२०.८ ।।

कृत्वोंकारं प्रदीपं मृगय गृहपतिं सूक्ष्ममाद्यंतरस्थं संयम्य द्वारवासं पवनपटुतरं नायकं चोंद्रियाणाम्।।
वाग्जालैः कस्य हेतोर्विभटसि तु भयं दृश्यते नैव किंचिद्देहस्थं पश्य शंभुं भ्रमसि किमु परे सास्त्रजालेन्धकारे।।लिङ्ग  २.९.५५ ।।