PURAANIC SUBJECT INDEX (From Mahaan to Mlechchha ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
मुषल पुराणेषु एके सार्वत्रिकाख्याने यशोदा उलूखलेन सह कृष्णस्य उदरस्य बन्धनं करोति। तेन उलूखलेन कृष्णः यमलार्जुनवृक्षयोः उद्धारं करोति। एतौ यमलार्जुनौ कुबेरस्य अनुचरौ आस्ताम्। द्वितीयाख्यानः साम्बस्य अस्ति। कृष्ण एवं जाम्बवती – पुत्रस्य साम्बस्य सखायः तस्य स्त्रीरूपं कृत्वा, तस्य उदरे मुशलं बद्ध्वा तं ऋषिभ्यः समीपे नयन्ति। ऋषयः तं शपन्ति यत् तस्य उदरात् यः मुषलं उत्पत्स्यति, तेन यादववंशस्य संहारं भविष्यति। मुशलस्य तृतीयमाख्यानं कुजृम्भासुरस्य अस्ति। कुजृम्भः मुदावत्याः अपहरणं करोति। कुजृम्भस्य अस्त्रं मुशलं अस्ति। किन्तु यदि कोपि मुशलस्य स्पर्शं कर्तुं शक्नोति, तदा मुशलस्य मारकशक्तिः विनष्टा भवति। भलन्दन-पुत्र वत्सप्रीः मुशलस्य मारकशक्त्याः शमनं करोति एवं कुजृम्भराक्षसतः मुदावत्याः रक्षणं करोति। प्रश्नं अस्ति – उदरस्य बन्धनं उलूखलेन सह कर्तव्यमस्ति अथवा मुसलेन सह। शतपथब्राह्मणे ७.५.१.३८ कथनमस्ति यत् उदरं उखा अस्ति। उखायाः स्थापनं उलूखले करणीया भवति। द्युलोके या उषा अस्ति, या सूर्यस्य अग्रे गच्छति, तस्याः मर्त्यलोके रूपं उखा अस्ति। उखायाः तेजस्य सम्पादनं पुण्यानां संभरणात् भवति। अस्य कृत्यस्य कः लाभः अस्ति, अयं अन्वेषणीयमस्ति। मुशलस्य एकं रूपं अन्नस्य वितुषीकरणमस्ति। अन्नकणोपरि यः तुषः भवति, तत् निर्ऋतेः रूपं भवति। अयं मृत्योः रूपमस्ति। वैदिकवाङ्मये शब्दयोः युगलौ स्तः – ओ षु (ऊं सु) एवं मो षु। सायणभाष्ये एतयोः अर्थं स्पष्टं नास्ति। डा. फतहसिंह अनुसारेण प्रथमः प्राणानां आदानमस्ति, द्वितीयः विसर्जनम्। ओंकारस्य अ, उ एवं म अक्षराणां तात्पर्यं सार्वत्रिकरूपेण कथितमस्ति- अ अक्षरः शक्त्याः आदानतः सम्बद्धः अस्ति येन सममित्याः पूरणं भवति। उ अक्षरः शक्त्याः धारणेन, कुम्भकेन सह सम्बद्धः अस्ति। म अक्षरः अपशिष्टायाः ऊर्जायाः विसर्जनेन सह सम्बद्धः अस्ति। अनुमानमस्ति यत् वेदमन्त्रेषु यः मो षु युगलः अस्ति, तत् अपशिष्टऊर्जायाः भेषजेन सह सम्बद्धः अस्ति। पुराणे भलन्दन/बलन्धन-पुत्रस्य वत्सप्रेः कथा अस्ति यत्र सः कुजृम्भासुरस्य मुशलं निष्प्रभं करोति एवं मुदावत्याः कन्यायाः रक्षणं करोति। एकः वात्सप्रं साम अस्ति। अस्मिन् विषये शतपथब्राह्मणे कथनमस्ति - तद्धैक आहुः । स्वयं वा एष वनीवाहितो विष्णुक्रमैर्वा एष प्रयाति वात्सप्रेणावस्यतीति न तथा विद्याद्दैवं वा अस्य तत्प्रयाणं यद्विष्णुक्रमा दैवमवसानं यद्वात्सप्रम - माश ६,८, १,३ । अत्र अवसानशब्दस्य उल्लेखं महत्त्वपूर्णमस्ति। वत्सप्रीः बलन्धनस्य पुत्रः अस्ति। बल अथवा वाल- विकीर्णऊर्जा एव धनं यस्य स बलन्धनः। विकीर्णऊर्जायाः भेषजं केन प्रकारेण संभवमस्ति, अन्वेषणीयः। वात्सप्रीसाम्नि ईनिधनमस्ति। डा. फतहसिंहानुसारेण एकः इति अस्ति, एकः गतिः। इतिः अस्मात् लोकात् सम्बद्धा अस्ति, गतिः तस्मात् लोकात्।
मो षु णः परापरा निर्ऋतिर्दुर्हणा वधीत्। पदीष्ट तृष्णया सह॥ १.०३८.०६ मो षु देवा अदः स्वरव पादि दिवस्परि। मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी॥ १.१०५.०३
ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः। यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्। अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम्॥ १.१३९.०८ अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः। धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता॥ १.१८२.०१ हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन। मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये॥ २.०१८.०३ भूयामो षु त्वावतः सखाय इन्द्र गोमतः। युजो वाजाय घृष्वये॥ ४.०३२.०६ मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन्। आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि॥ ७.०३२.०१ मो षु वरुण मृन्मयं गृहं राजन्नहं गमम्। मृळा सुक्षत्र मृळय॥ ७.०८९.०१ मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते। मत्स्वा सुतस्य गोमतः॥ ८.०९२.३० एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि। आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान्॥ १०.०२७.२० मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम्। द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निर्ऋतिर्जिहीताम्॥ १०.०५९.०४ शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा। भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्॥ १०.०५९.०८ अव द्वके अव त्रिका दिवश्चरन्ति भेषजा। क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्॥ १०.०५९.०९ समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः। भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत्॥ १०.०५९.१० त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि । मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥५.११.७॥ मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । मत्स्वा सुतस्य गोमतः ॥२०.६०.३॥ मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः । यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् । अस्मासु तन् मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥२०.६७.२॥ ५९ उखोपरि होमः : उदरमुखा । योनिरुलूखलम् । उत्तरोखा भवति अधरमुलूखलम् । उत्तरं ह्युदरम् अधरा योनिः । शिश्नं मुसलम् । - - - मा.श.७.५.१.३८ प्रवर्ग्यः :मध्य उपयमनमुदरस्य रूपम् । तस्मिन् सर्वं रज्जुमयं समवदधात्यान्त्राणां रूपम् । - आप.श्रौ.सू.१५.१५.१ - - - -- - मध्य उपयमनमुदरो ऽभितो ऽभ्रः श्रोणी - - - -तस्मिन्सर्वं रज्जुमयं दधाति तान्यन्त्राणि । - वैखानस श्रौ.सू.१३.१७
|