पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Paksha to Pitara ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
टिप्पणी : संहितासु परा-शरस्य सम्बन्धी ये मन्त्राः सन्ति, तेषां निष्कर्षं अयं अस्ति। यदा क्रोधः उत्पद्यते, तदा तत् क्रोधः अमित्राणां भस्मीकर्तुं न शक्नोति। कारणं। क्रोधरूपी यः शरः उत्पन्नः भवति, तत् पारे गन्तुं न शक्नोति। डा. फतहसिंहानुसारेण, मानुषीत्रिलोक्यां( अन्नमय, प्राणमय, मनोमय कोषाः) यः शक्तिरस्ति, तस्य स्रोतः दैवीत्रिलोक्यां (मनोमय, विज्ञानमय, आनन्दमयकोषाः) अस्ति। यदि शत्रूणां, अमित्राणां भस्मीकर्तुं इच्छा अस्ति, तर्हि क्रोध अथवा मन्युजनितशरः मनोमयकोशस्य पारे गन्तुं अर्हति। पुराणानां विषयवस्तु पराशरात् अपि परः, शत्रुहननात् अपि परः अस्ति। शत्रुहननकार्यं दक्षताप्राप्त्यन्तर्गतं भवति। पुराणानां विषयवस्तु दक्षताप्राप्त्यनन्तरं आनन्दप्राप्तिविषयकं अस्ति। स्कन्दपुराणे ५.३.९७.९० पराशरादयः ऋषयः व्यासऋषितः नर्मदायाः उत्तरकूले एव भोजनप्राप्तेः आग्रहं कुर्वन्ति एवं व्यासः तपसा एवंकर्तुं सफलः भवति। पराशरस्य जन्म अदृश्यंतीसंज्ञकातः मातातः भवति। विज्ञानमयकोशे या शक्ति अस्ति, ता अदृश्यंती अस्ति। तस्याः शक्त्याः मनोमयादिकोषेशु अवतारणं दृश्यन्तकरणमस्ति। विष्णुधर्मोत्तरपुराणे १.११७.३२ कृष्ण, नील, रक्त, श्वेत, गौर आदि प्रकाराणां पराशर गोत्राणां कथनमस्ति। अयं कथनमपि साधनायाः शुष्कस्थित्यातः आनन्दात्मिकायाः स्थित्यायाः संकेतं करोति। देवीभागवत २.२ , स्कन्दपुराण ५.३.९७.१० आदिषु निषादकन्या पराशरं नौकया यमुनापारं नयति। पराशरं निषादकन्या सह मैथुनं कर्तुमिच्छति। निषादकन्या कथयति यत् सा दुर्गन्धियुक्ता अस्ति, तस्य पिता निषादः दिवाकाले तां पश्यति। पराशरः त्वरितैव तां सुगन्धयुक्तां करोति, दिवाकाले निशाकालस्य सर्जनं करोति आदि। अयं वर्णनं संकेतं करोति यत् यः परा – शरस्य सर्जनं जानाति, सः आगन्तुकानां विषमपरिस्थितीनां परिवर्तनं अनुकूलपरिस्थितिषु कर्तुं शक्नोति।
संदर्भाः
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः ॥६.७५.१६॥
प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः । न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् ॥७.१८.२१॥ इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः ॥७.१०४.२१॥
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१३॥
परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः ॥१४॥
पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥१०.८७.१३-१५॥
अव मन्युरवायताव बाहू मनोयुजा ।
आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ । निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् ।........अवसृष्टः परापत शरो ब्रह्म संशितः । गच्छामित्रान्प्रविश मैषां कंचनोच्छिष इति वा --आप.श्रौ.सू. ३.१४.३ पराशरः पराशीर्णस्य वसिष्ठस्य स्थविरस्य जज्ञे । पराशरः शतयातुः वसिष्ठः । इति अपि निगमः भवति ।......इन्द्रः यातूनाम् अभवत् पराशरः । [ परा ] शातयिता यातूनाम् ।...इन्द्रः अपि पराशरः उच्यते ।- यास्क निरुक्त ६.३०
|