पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Paksha to Pitara ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
पर्जन्य दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन। यत्पृथिवीं व्युन्दन्ति॥(दे. मरुतः) १.०३८.०९ मिमीहि श्लोकमास्ये पर्जन्य इव ततनः। गाय गायत्रमुक्थ्यम्॥ १.०३८.१४ समानमेतदुदकमुच्चैत्यव चाहभिः। भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः॥ १.१६४.५१ शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः। शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम्॥ ४.०५७.०८ आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः। वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः॥ ५.०५३.०६ माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम्। तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते॥ ५.०६३.०४ वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम्। अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम्॥ ५.०६३.०६ अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास। कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम्॥ ५.०८३.०१
वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् । यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति। यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ॥ ५.०८३.०५
यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः । पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि। सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वम्॥ ६.०४९.०६ ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः। ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः॥ ६.०५०.१२ इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना। पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव॥ ६.०५२.०६ अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः। इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे॥ ६.०५२.१६ आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम्। इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः॥ ६.०७५.१५ शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः। शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः॥ ७.०३५.१० इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत्। मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः॥ ७.१०१.०५ पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे। स नो यवसमिच्छतु॥ ७.१०२.०१ यो गर्भमोषधीनां गवां कृणोत्यर्वताम्। पर्जन्यः पुरुषीणाम्॥ ७.१०२.०२ संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः। वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः॥ ७.१०३.०१ महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव। स्तोमैर्वत्सस्य वावृधे॥ ८.००६.०१ चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु। पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत्॥ ८.०२१.१८ हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः। अग्निं समुद्रवाससम्॥ ८.१०२.०५ अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया। पर्जन्यो वृष्टिमाँ इव॥ ९.००२.०९ एते वाता इवोरवः पर्जन्यस्येव वृष्टयः। अग्नेरिव भ्रमा वृथा॥ ९.०२२.०२ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे। स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे॥ ९.०८२.०३ पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत्। तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव॥ ९.११३.०३ पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा। देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये॥ १०.०६५.०९ वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः। वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः॥ १०.०६६.०६ धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः। आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम्॥ १०.०६६.१० बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा। आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शंतनवे वृषाय॥ १०.०९८.०१ यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे। विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम्॥ १०.०९८.०८ याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद। या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ॥(दे. गावः) १०.१६९.०२
१. उत् पर्जन्यस्य वृष्टयोदस्थाममृताँ अनु । काठ २, ६ ।। २. अक्रन्ददग्नि स्तनयन्निव द्यौरिति । क्रन्दतीव हि पर्जन्यः । माश ६, ७, ३, २। ३. तान् ( देवान् ) आदित्यः पर्जन्यः पुरोबलाको भूत्वा ऽभिप्रैत्तान् वृष्ट्या ऽशन्या विद्युता ऽहन् । तदाहुः स्त्री सुब्रह्मण्या३ पुमा३न्नपुंसका३ मिति ॥४॥ सर्व्वमेवेति ब्रूयात् ॥५॥ यत्पर्ज्जन्यः पुरोबलाको भूत्वाऽभिप्रैत्तेन पुमान्यद्वृष्ट्या यदशन्या तेन स्त्री यद्विद्युता तेन नपुँसकं तस्मात्सर्वमेवेति ब्रूयात् ॥६॥ ष १, २ ।। ४. सोमानयनम् -- तौ (अनड्वाहौ ) यदि कृष्णौ स्यातामन्यतरो वा कृष्णस्तत्र विद्याद्वर्षिष्यत्यैषमः पर्जन्यो वृष्टिमान् भविष्यतीति । माश ३, ३, ४, ११। ५. निकामे निकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् । तैसं ७, ५, १८, १; मै ३, १२, ६ । ६. अहोरात्रे शतरुद्रीयम् । पर्जन्यः वसोर्धारा । यथा वै पर्जन्यः सुवृष्टं वृष्ट्वा । प्रजाभ्यः सर्वान्कामान्त्संपूरयति । एवमेव स तस्य सर्वान्कामान्त्संपूरयति । योऽग्निं नाचिकेतं चिनुते - तै ३, ११,१०,३ । ७. पर्जन्यस्य विद्युत् ( पत्नी ) । तैआ ३, ९,२।। ८. पर्जन्यः सदस्यः । गो १, १, १३ । ९. पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु । तैआ १,२९,१ । १०. पर्जन्याय मण्डूकान् ( आलभते ) । मै ३, १४, २। ११. पर्जन्यो भूत्वा ( प्रजापतिः ) प्रजानां जनित्रमभवत् । जै १, ३१४ । १२. पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं मयि -- तै ३, १०, ८, ८ ।। १३. पर्जन्यो वा अग्निः । तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गाः - माश १४, ९, १, १३ । १४. माहेन्द्रग्रहः -- महाꣳ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर् वत्सस्य वावृधे ॥ - तैसं १, ४, २०, १; काठ ४, ८; क ३,६ ।। १५. पर्जन्यो वै भवः पर्जन्याद्धीदं सर्वं भवति । माश ६, १, ३, १५।।
१६.
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेनो मनुष्यस्समीधे । १७. प्र वाता वान्ति पतयन्ति विद्युता उदोषधीर्जिहते पिन्वते स्वः (सुवः (तैआ.) । इरा विश्वस्मै भुवनाय जायते, यत् पर्जन्यः पृथिवीं रेतसाऽवति । मै ४,१२,५; तैआ ६,६,३ । १८. महानाम्नयः -- यः पर्जन्यस्य घोषो यो दुन्दुभेस्तममुष्यै (दिवे) प्रायच्छत् । जै ३,१०५ । १९. वराहवः, स्वतपसः विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते । ये चेमेऽशिमिविद्विषः । पर्जन्याः सप्त पृथिवीमभिवर्षन्ति । वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वा तैरुदीरिताः । अमूँल्लोकानभिवर्षन्ति । समानमेतदुदकमुच्चैत्यव चाहभिः। भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः॥ तैआ १, ९,४-५ । २०. वृषा वा अश्वः । वृषा पर्जन्यः । कृष्ण इव खलु वै भूत्वा वर्षति- तैसं २, ४, ९, ४; मै २, ४, ८, काठ ११,१० (वर्ष्टा पर्जन्यः [तैसं ७, ५, २०, १J) २१. सुक्षितिः सुभूतिर्भद्रकृत् सुवर्वान् पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसो रुचः। तैसं ३.४.७.२ २२ उष्णिक् छन्द, स्तच्चक्षुः, पूषा देवता........बृहती छन्दस्तत् कृषिः, पर्जन्यो देवता – मै २.१३.१४ २३ पर्जन्यो वा उद्गाता। पर्जन्यादु वै वृष्टिर्जायते। वृष्टिं तदोषधिभिः संदधाति। - माश. १२.१.१.३, ष २.५ २४ उदाने पर्जन्यम् (प्रजापतिरावेशयत्) – शांआ ११.१ २५ पञ्चचूडा -- अथ यदर्वाग्वसुरित्याहातो (पर्जन्यात्) ह्यर्वाग्वसु वृष्टिरन्नं प्रजाभ्यः प्रदीयते। - माश ८.६.१.२० २६ पर्जन्यो वा अपामायतनम् . . . .आपो वै पर्जन्यस्यायतनम् – तैआ १.२२.६ पार्जन्य १. त्रयस्सारङ्गाः पार्जन्या नभोरूपाः। काठ ४९, ९ नभोरूपाः(अश्वाः) पार्जन्याः - मै ३,१३,४;७)। २. षड्भिः पार्जन्यैर्वा मारुतैर्वा (पशुभिः) वर्षासु (यजते) । माश १३,५,४,२८ । ३. अश्वमेधः -- सुपर्णः पार्जन्यः । मै ३, १४, १५; काठ ४७, ११ ॥ पर्जन्य उद्गाता स म उद्गातोद्गातर्देवयजनं मे देहीत्युद्गातारम् । - आप.श्रौ.सू. १०.३.१ भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति । - अव्यक्तोपनिषत् २ हरिः ॐ एकाक्षरं त्वक्षरेऽत्रास्ति सोमे सुषुम्नायां चेह दृढी स एकः । त्वं विश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता ॥ १॥–एकाक्षरोपनिषत् १ मुखं मरुतः स्तनौ वस्वादयो हृदयं पर्जन्य उदरमाकाशो नाभिरग्निः – गायत्रीरहस्योपनि. अभ्राणि संप्लवन्ते स हिङ्कारः । मेघो जायते स प्रस्तावः । वर्षति स उद्गीथः । विद्योतते स्तनयति स प्रतिहारः । उद्गृह्णाति तन्निधनम् । एतद्वैरूपं पर्जन्ये प्रोतम् ॥ स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद । विरूपांश्च सुरूपांश्च पशूनवरुन्धे । छा.उ. २,१५.१ ॥ अथ योऽस्योदङ्सुषिः स समानः । तन्मनः । स पर्जन्यः । तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत । कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ छा.उ. ३,१३.४ ॥ पर्जन्यो वाव गौतमाग्निः । तस्य वायुरेव समित् । अभ्रं धूमः । विद्युदर्चिः । अशनिरङ्गाराः । ह्रादुनयो विस्फुलिङ्गाः ॥ १ ॥ तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुतेर्वर्षं संभवति ॥ छांउ. ५,५.२ ॥
समाने तृप्यति मनस्तृप्यति । मनसि तृप्यति पर्जन्यस्तृप्यति । पर्जन्ये तृप्यति विद्युत्तृप्यति । विद्युति तृप्यन्त्यां यत्किं च विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति । छा.उ. ५,२२.२ एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ प्रश्नोपनिषत् ५ ॥ ब्रह्म वा इदमग्र आसीदेकमेव । तदेकं सन्न व्यभवत् । तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति । - बृहदा.उ. १.४.११ तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः । अथ या अक्षन्नापस्ताभिः पर्जन्यः । - बृहदा.उ. २.२.२ पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समित् । अभ्राणि धूमः । विद्युदर्चिः । अशनिरङ्गाराः । ह्रादुनयो विष्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुत्यै वृष्टिः संभवति ॥ बृह. ६,२.१० ॥ याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौषधिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः – महानारायणोपनि. १५ वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥ तस्मादग्निः समिधो यस्य सूर्यः सोमात् पर्जन्य ओषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥मुण्डकोपनि २.१. ५॥ याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति पर्जन्येनौषधिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरन्नं भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिः – याज्ञिक्युपनिषत् ४६० कालवर्षी तु पर्जन्यः सस्यसम्पत्तिरुत्तमा । सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥ शिवोपनिषत् ६-१५८॥ सूर्याद्वै खल्विमानि भूतानि जायन्ते । सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य । - सूर्योपनिषत् यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु । सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धा इत्यन्तर्वेदि बर्हिरासन्नम् आप.श्रौसू. ४.६.१ वैश्वानरं द्वादशकपालं पार्जन्यं च चरुम् – आप.श्रौ.सू. ८.१.३ चातुर्मास्य वैश्वदेवः-- पर्जन्याय प्रगायत दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु । अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसाविवास । कनिक्रदद्वृषभो जीरदानू रेतो दधात्वोषधीषु गर्भमिति पार्जन्यस्य । हिरण्य वैश्वानरे ददाति धेनुं पार्जन्ये । - आप.श्रौ.सू. ८.१.४
अथ वरणाः । अग्निर्मे होतादित्यो मेऽध्वर्युश्चन्द्रमा मे ब्रह्मा पर्जन्यो अश्वमेधः -- आग्नेया वासन्ताः । ऐन्द्रा ग्रैष्माः । मारुताः पार्जन्या वा वार्षिकाः । ऐन्द्रावारुणाः शारदाः । ऐन्द्राबार्हस्पत्या हैमन्तिकाः । ऐन्द्रावैष्णवाः शैशिराः आप.श्रौ.सू. २०.२३.११ वैश्वानरं द्वादशकपालं पार्जन्यं चरुं – बौ.श्रौ.सू. ५.१.८ सोमक्रयणम् - अथैनमादायोपोत्तिष्ठत्युदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अन्विति – बौ.श्रौ.सू. ६.१५.१७ इन्द्र ज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्य इति – बौ.श्रौ.सू. ७.४.१५ परिषिच्यमाने यजमानं वाचयत्यश्मन्नूर्जं पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्योऽधि संभृतां तां न इषमूर्जं धत्त मरुतः सꣳ रराणा – बौ.श्रौ.सू. १०.४८.२८ राजगृहान्विप्रव्रजतोऽनुमन्त्रयते यन्तु नद्यो वर्षन्तु पर्जन्याः सुपिप्पला ओषधयो भवन्तु । - बौ.श्रौ.सू. १८.१८.१६ वैमृधेष्टिः - पर्यन्यस्याहं देवयज्यया सुयवसो भूयासं सोमस्याहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय सुरेता रेतो धिषीयेति वा – बौ.श्रौ.सू. २७.१४.४ चातुर्मास्यान्तर्गतवैश्वदेवपर्वप्रकरणम् - वैश्वानरीयपार्जन्येष्टिः पूर्वस्यां पौर्णमास्याम् । पर्जन्याय यस्य व्रते शांश्रौ.सू. ३.१३.४ अश्वमेधः - मारुताः पार्जन्या वा वर्षासु शांश्रौसू. १६.९.२९ लाङ्गलयोजनं -- इन्द्रं पर्जन्यमश्विनौ मरुत उदलाकाश्यपं स्वातिकारींसीतामनुमतिं च दध्ना तण्डुलैर्गन्धैरक्षतैरिष्ट्वाऽनडुहो मधुघृते प्राशयेत् पार.गृ.सू. २.१३.२ पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद – कौशिकसूत्र १०६.७ यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।वशा पर्जन्यपत्नी देवाँ अप्येति ब्रह्मणा ॥शौअ १०.१०.६॥
|