पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Dvesha to Narmadaa ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
धिषणा वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि। द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति॥ ३.००२.०१ लोके धिषणाशब्दस्य एकं अर्थं धी, बुद्धिः अस्ति। ऋग्वेदे १.१०२.०१ कथनमस्ति - अस्य स्तोत्रे धिषणा यत्त आनजे। यागेषु एकः स्तोत्रः अस्ति। स्तोत्रः मोक्षप्रदायकः अस्ति। स्तोत्रस्य फलस्वरूपं लोके यः कल्याणं भविष्यति, तत् धिषणयाः परिवर्तनेन भविष्यति। अयं रयि, रायः प्रदायकः पथः अस्ति (राये देवी धिषणा धाति देवम्।(ऋ. ७.०९०.०३, रायो जनित्रीं धिषणामुप ब्रुवे – ऋ. १०.०३५.०७)। काठकसंहितायां ३४, १५ कथनमस्ति - प्राण उपरवेषु भ्रातृव्या धिष्ण्येषु। तैसं ६, ३, १, ५ कथनमस्ति - प्राणा वा एते यद् धिष्णियाः। प्रश्नोपनिषदानुसारेण एकः प्राणः अस्ति, अन्यः रयिः। एकः देवयानः पन्था अस्ति, अन्यः पितृयाणः। किं प्राणस्य बहुवचनं प्राणाः रयिवर्गे अस्ति, विचारणीयः। अथवा, किं रायःरूपाणां धिष्ण्यानां रूपान्तरणं प्राणेषु कर्तुं शक्यन्ते, विचारणीयः। डा. फतहसिंहः कथयति स्म – वेदे शब्दस्य एकं रूपं एकवचनमस्ति। अयं सर्वश्रेष्ठः अस्ति। अन्ये रूपाः द्विवचन एवं बहुवचनमस्ति। धिषणस्य बहुवचनं धिष्ण्याः अस्ति। कथनमस्ति यत् यः अग्निष्टोमयागः अस्ति, तत् वैश्वानराग्निरेव अस्ति। हरिवंशपुराणे ३.७१.६ कथनमस्ति - आहुश्च यं वेदविदो द्विजेन्द्रा वैश्वानरं वाजिनमश्वमेधम् । ये धिष्ण्याः सन्ति, ते वैश्वानरस्य अंगाः सन्ति (अग्नेर्वा एता वैश्वानरस्य प्रियास्तन्वो यद्धिष्ण्याः यद्धिष्ण्यान् व्याघारयति ता एवैतत् समुद्धर्षयति । - काठ २६,१)। अग्निष्टोमे सदोमण्डपे ६ धिष्ण्यसंज्ञकानां अग्नीनां प्रतिष्ठा भवति। तेषां स्वामिनः मैत्रावरुण, होता, ब्राह्मणाच्छंसी, अच्छावाक् ऋत्विजाः सन्ति। एते षडग्नयः केनापि कारणेन अदीप्तावस्थायां, तमोवस्थायां वसन्ति। विशिष्टेष्वसरेषु आग्नीध्रसंज्ञकः ऋत्विक् स्वधिष्ण्या एतेषां ज्योतिष्करणं करोति। आग्नीध्रस्य या धिष्ण्या अस्ति, तत् सर्वदैव ज्योतिरवस्थायां वसति। कथनमस्ति यत् धिष्ण्यानां या तमोवस्था अस्ति, तत् वैश्वानराय अपेक्षिता नास्ति, ज्योतिष्मती अवस्था अपेक्षिता अस्ति। पुराणेषु नक्षत्राणां विभाजनं वीथ्यानुसारेण भवति। तेषां एका वीथी वैश्वानरवीथी अस्ति। कथनमस्ति यत् यः वैश्वानरपथाद्बहिरस्ति, तत् पितॄणां मार्गः अस्ति। वाल्मीकिरामायणे १.५९.३० कथनमस्ति - गगने तानि अनेकानि वैश्वानर पथात् बहिः । नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥ अवाग् शिराः त्रिशंकुः च तिष्ठतु अमर संनिभः । अस्योल्लेखानुसारेण, ये नक्षत्राः वैश्वानरपथाद् बहिः सन्ति, तेपि ज्योतिषा जाज्वल्यमानाः सन्ति, न तमोरूपा। तेषु त्रिशंकुः सशरीरः अवस्थितः अस्ति। पुराणकथानुसारेण त्रिशंकुं वैश्वानरपथाद्बहिः स्थापकः विश्वामित्रः अस्ति एवं वैश्वानराय धिषणामृतावृधे सूक्तस्य ऋषिरपि गाथिनः विश्वामित्रः अस्ति। यः वैश्वानरपथतः बाह्यः अस्ति, किं तत् वैश्वानरस्य धिषणा अस्ति, अथवा विश्वामित्रः वैश्वानराय यस्य धिषणायाः कल्पनं कर्तुं शक्यते, तत् वैश्वानरपथः बाह्यः अस्ति, अयं विचारणीयः । वैदिकवाङ्मये धिषणायाः एकं स्वरूपं वाक् अस्ति(देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वदभीधिरे ताभिरेवैनामेतदभीन्द्धे सा ह सा वागेव वाग्वै धिषणा - माश ६, ५,४,५), द्वितीयं विद्या( उखासंस्कारः - धिषणास् त्वेत्य् आह ।विद्या वै धिषणाः । विद्याभिर् एवैनाम् अभीन्द्धे तैसं ५, १, ७, २)। मैत्रायणीसंहितायां ३,१,८ या धिषणा उखाग्नेः संस्कारं करोति, तत् वाक्स्वरूपा अस्ति। या वाक् स्वरूपा धिषणा अस्ति, तत् देवी अस्ति। या वाक् वर-शापदाने समर्था अस्ति, या कल्पवृक्षस्य सृष्टिं कर्तुं शक्ता अस्ति, तस्याः वर्गीकरणं दैवी वाचि कर्तुं शक्यन्ते। विद्यास्वरूपा धिषणायाः संदर्भे, बृहस्पतेः संज्ञा अपि धिषणा अस्ति(पद्म ६.७.४१ - धिषणस्तु जगन्नाथमुवाच त्वरितं तदा। ओषधीभिरहं स्वामिन्जीवयिष्यामि निर्जरान् ।।)। पुराणेषु सार्वत्रिकरूपेण कथनमस्ति यत् हविर्धानस्य पत्नी धिषणा अस्ति। ये धिष्ण्यः सन्ति, तेषां अवस्थितिः सदोमण्डपे अस्ति। सदोमण्डपः गार्हपत्याग्नेः रूपान्तरणं अस्ति एवं उदरस्थानीयः अस्ति। सदोमण्डपतः बहिरपि महावेद्यां धिष्ण्यः सन्ति, यथा आग्नीध्रस्य धिष्ण्यः। हविर्धानमण्डपः परिष्कृतसोमस्य भण्डारस्थानः अस्ति। किं हविर्धानः आहवनीयाग्नेः प्रतिमा अस्ति, विचारणीयः। या धिषणा हविर्धानस्य पत्नी अस्ति, तस्य प्रकृत्याः अनुमानं तस्याः प्राचीनबर्हिः आदि पुत्राणां प्रकृत्यानुसारेण कर्तुं शक्यन्ते। वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि। अत्र घृतं न पूतं कथनमपि विचारणीयः अस्ति। ये धिष्ण्यः सदोमण्डपे अवस्थिताः सन्ति, तेषां कामना यद्यपि सोमस्याहुतिः प्राप्त्यै अस्ति, किन्तु शापवशात् तेभ्यः घृतस्य आहुतिरेव दीयमाना अस्ति। अन्ये मार्जालीया आदि धिष्ण्यः सन्ति ये सोमस्याहुतिमपि प्राप्नुवन्ति। भागवतपुराणे ११.१६.२१कथनमस्ति - धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः। धिष्ण्यानां पराकाष्ठा किमस्ति, अस्मिन् संदर्भे पुराणेषु सार्वत्रिकरूपेण उल्लेखमस्ति यत् विष्णोः धिष्णात् ब्रह्मणः प्राकट्यमभवत् - मन्योर्गिरीशो धिषणाद्विरिञ्चः ।(भागवतपु. ८.५.३९ ), तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यं (भागवतपु. २.१.३०), वैधसं बन्धनं धिष्ण्यं तत्त्यागे तुष्यति प्रभुः(लक्ष्मीनारायणसं. ४.४४.६३)। बौधायनश्रौतसूत्रादिषु १.७ कथनमस्ति - तस्यां प्राचीं दृषदमध्यूहति धिषणासि पर्वत्या प्रति त्वा दिव स्कम्भनिर्वेत्त्विति। दृषद्युपलामध्यूहति धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्विति । ये दृषदुपलौ स्तः, तौ केन प्रकारेण धिषणा भवितुं शक्नुतः। दृषदोपरि टिप्पणी पठनीयः अस्ति। कथनमस्ति यत् धिष्ण्येषु असुराणां प्रवेशं संभवं नास्ति। किन्तु लक्ष्मीनारायणसंहितायां ३.३२.१३ एकः अरिष्टअनलादः असुरः अस्ति यः धिष्ण्याग्नीनां अपि भक्षणकर्तुं शक्नोति - धिष्णिसंज्ञानपि पुत्रानभक्षयन्महासुरः । काठकसं. ३४, १५ कथनमस्ति - प्राण उपरवेषु भ्रातृव्या धिष्ण्येषु पशवा बर्हिषि वेद्याँ स्तीर्यमाणायाम्। मै ३,३, २ अनुसारेण यजमानायतनं वा आहवनीयो , भ्रातृव्यायतनं धिष्यासि। काठकसंहिता २१, ४ अनुसारेण आत्मा वा आहवनीयो भ्रातृव्यो धिष्ण्यो यद्गार्हपत्य उपदध्याद्भ्रातृव्ये वामं पशून् दध्यादाहवनीय उपदधात्यात्मन्नेव वामं पशून् धत्ते। धिषणा शब्दस्य एका निरुक्तिः धिष शब्दे (काशकृत्स्न धातुव्याख्यानम् २.७६) अनुसारेण कर्तुं शक्यन्ते। अन्या निरुक्तिः ञिधृषा प्रागल्भ्ये(चातुर्ये) (काशकृत्स्नधातुव्याख्यानम् ४.१८ ) अनुसारेण सायणाचार्यमहोदयेन कृतमस्ति।
संदर्भाः स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा। आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम्॥ १.०९६.०१ इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे। तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु॥ १.१०२.०१ उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः। अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरंदर॥ १.१०२.०७ मा च्छेद्म रश्मीँरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः। इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे॥ १.१०९.०३ युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति। तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु॥ १.१०९.०४ वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि। द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति॥ ३.००२.०१ मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः। गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः॥ ३.०३१.१३ विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः। अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते॥ ३.०३२.१४ ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात। इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः॥ ४.०३४.०१ यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना। द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः॥ ४.०३६.०८ अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः। धन्या सजोषा धिषणा नमोभिर्वनस्पतीँरोषधी राय एषे॥ ५.०४१.०८ इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे। त्रयस्तस्थुर्वृषभासस्तिसॄणां धिषणानां रेतोधा वि द्युमन्तः॥ ५.०६९.०२ धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै। वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधुच्छन्दो भनति रेभ इष्टौ॥ ६.०११.०३ इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम्। अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि॥ ६.०१९.०२ राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम्। अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके॥ ७.०९०.०३ तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्। वज्रं शिशाति धिषणा वरेण्यम्॥ ८.०१५.०७ पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः। पवस्व धिषणाभ्यः॥ ९.०५९.०२ यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात्। अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम्॥ १०.०१७.१२ एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ। सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः॥ १०.०३०.०६ श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि। रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे॥ १०.०३५.०७ उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत्। मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा॥ १०.०९६.१०
१. राष्ट्रं वै द्रोणकलशो विशो ग्रावाणः। यद् द्रोणकलशश् शिथिलस् स्याद् राष्ट्रं शिथिलं स्यात्। तं दृंहति देवी त्वा धिष्णे निपातां ध्रुवे सदसि सीदेष ऊर्जे सीद इति। इमे वै देवी धिषणे इदं ध्रुवं सदः। एभिर् एवैनं तल् लोकैर् दृंहति – जैब्रा १.८० २. व्रीहिपेषणम् – धिषणाऽसि पर्वत्या प्रति त्वा दिव स्कम्भनिर् वेत्तु धिषणाऽसि पार्वतेयी प्रति त्वा पर्वतिर् वेत्तु – तैसं १.१.६.१ दर्शपूर्णमासौ -- तस्यां प्राचीं दृषदमध्यूहति धिषणासि पर्वत्या प्रति त्वा दिव स्कम्भनिर्वेत्त्विति। दृषद्युपलामध्यूहति धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्विति – बौ.श्रौ.सू. १.७ धिषणासि पार्वती प्रति त्वादित्यास्त्वग् वेत्तु , धिषणासि पार्वती प्रति त्वा पार्वती वेत्तु , । मै १,१,७; काठ १,६; क १,६। ३. धिषणा त्वा देवी विश्वदेव्यवती पृथिव्याः सधस्थे अङ्गिरस्वदभीन्धाताम् उखा इति, वाग् वै धिषणा देवी विश्वदेव्यवती, वाचैवैनामभीन्द्धे। मै ३,१,८ ४, ५, २; धिषणास्त्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वदभीन्धतामुख इति धिषणा हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वदभीधिरे ताभिरेवैनामेतदभीन्द्धे सा ह सा वागेव वाग्वै धिषणा - माश ६, ५,४,५ । ४. उखासंस्कारः - धिषणास् त्वेत्य् आह ।विद्या वै धिषणाः । विद्याभिर् एवैनाम् अभीन्द्धे तैसं ५, १, ७, २ ; मै ४, २, १; काठ १९, ७, ३१, १; क ३०, ५; ४७, १; दर्शपूर्णमासेष्टिः - अश्वपर्श्वा बर्हिरच्छैति ।....प्रेयमगाद्धिषणा बर्हिरच्छेत्याह । विद्या वै धिषणा । विद्ययैवैनदच्छैति । मनुना कृता स्वधया वितष्टेत्याह । मानवी हि पर्शुः स्वधाकृता - तै ३,२,२,२ ॥ वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणान्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं– ऐब्रा ५.२
धिष्णिय,'ण्य १.अग्नी रुद्रो , अग्नेरेतास्तन्वो यद्धिष्या। मै ४, ६, ९। धिष्ण्या न्युप्यन्तेऽनयोर्लोकयोर्विधृत्यै..... यद्धिष्ण्यान् व्याघारयति स्वेनैवैनान् भागधेयेन समर्धयति तेषां ये नेदिष्ठं पर्यविशँस्ते सोमपीथं प्राप्नुवन्नाहवनीय आग्नीध्रो होत्रीय.... न प्रत्यङ् धिष्ण्यानतिसर्पेदध्वर्युः प्राणा वै धिष्ण्याः प्राणान् संकर्षेन् - काठ २६, १; क ४०, ४ २. अग्नेर्वा एता वैश्वानरस्य प्रियास्तन्वो यद्धिष्ण्याः यद्धिष्ण्यान् व्याघारयति ता एवैतत् समुद्धर्षयति । काठ २६,१; क ४०,४ । ३. अमुष्मिन्वै (द्यु.) लोके सोम आसीत् तं धिष्ण्या अगोपायन् । काठ २६,१; क ४०, ४ ॥ ४. अथ सोमक्रयणाननुदिशति । स्वान भ्राजाङ्घरे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान्रक्षध्वं मा वो दभन्निति धिष्ण्यानां वा एते भाजनेनैतानि वै धिष्ण्यानां नामानि तान्येवैभ्य एतदन्वदिक्षत् - माश ३, ३, ३, ११। ५. यद् आग्नीध्राद् धिष्णियान् विहरति यद् एव यज्ञस्यापराजितं तत एवैनम् पुनस् तनुते…..धिष्णिया वा अमुष्मिँल्लोके सोममरक्षन् , तेभ्योऽधि सोममाहरन् ।….ते सोमपीथेन व्य् आर्ध्यन्त ते देवेषु सोमपीथम् ऐच्छन्त तान् देवा अब्रुवन् द्वेद्वे नामनी कुरुध्वम् अथ प्र वाऽऽप्स्यथ न वेति । अग्नयो वा अथ धिष्णियास् तस्माद् द्विनामा ब्राह्मणो ऽर्धुकस् तेषां ये नेदिष्ठम् पर्यविशन् ते सोमपीथम् प्राऽऽप्नुवन्न् आहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस् तस्मात् तेषु जुह्वति । तैसं ६, ३, १,२ । ६. धिष्ण्यान्युप्यन्ते ऽनयोर्लोकयोर्विधृत्यै। क ४०,४। ७. सुपर्णोऽसि गरुत्मान् ..... यज्ञायज्ञियं पुच्छम् , धिष्ण्याः शफाः । मै २, ७, ८, काठ १६, ८ । ८. प्राणा वा एते यद् धिष्णियाः। तैसं ६, ३, १, ५ ९. प्राण उपरवेषु भ्रातृव्या धिष्ण्येषु पशवा बर्हिषि वेद्याँ स्तीर्यमाणायाम्। काठ ३४, १५। १०. यजमानायतनं वा आहवनीयो , भ्रातृव्यायतनं धिष्यासि। मै ३,३, २ आत्मा वा आहवनीयो भ्रातृव्यो धिष्ण्यो यद्गार्हपत्य उपदध्याद्भ्रातृव्ये वामं पशून् दध्यादाहवनीय उपदधात्यात्मन्नेव वामं पशून् धत्ते - काठ २१, ४, क ३१,१८)। ११. र्विष्णुर् दीक्षातपोभ्यां , मित्रावरुणौ धिष्ण्यैः ( सहागच्छताम् )। मै १, ९, २; आदित्या आज्यैर्मित्रावरुणौ धिष्ण्येभिः - काठ ९, १० । १२. शिखा यूपः, शिरो हविर्धानं , पृष्ठमाग्नीध्रं, उदरं सदो , यदन्तरुदरे तद्धिष्ण्याः पाणी, आग्नीध्रश्च मार्जालीयश्च पार्ष्णी, । मै ४, ५, ९ । १३. स्त्रीणां वै नेष्टा पुमान् धिष्ण्यो मिथुन एव रेतो दधाति । काठ २८,८; क ४४, ८॥ संवत्सरो वा अग्निष्टोम, स्तस्य वा एतास्तन्वो यद्धिष्ण्या, स्ता वा अस्यैतत्समुद्धर्षयित्वा ज्योतिष्मतीः कृत्वाथाग्निष्टोमेन स्तुवते – मै ३.८.१०; गृहा गार्हपत्यो गृहवान् भवति य एवं वेद धिष्ण्या आहवनीयः उपैनं यज्ञो नमति य एवं वेद – काठ ८.७, क ७.४; तं (सोमम्) हाग्नयो गन्धर्वा जुगुपुरेत एव धिष्ण्याः। त उ एवाशीविषाः – जै १.२८७; त्रिवृतं हि स्तोमं पुरुषोऽन्वायत्तो धिष्ण्यानन्ये पशवः – जै १.२५० |